(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.152. अध्यायः 152
Mahabharata - Udyoga Parva - Chapter Topics
युधिष्ठिरेण कुरुक्षेत्रे समुचितदेशे सेनानां निवेशनम् ॥ 1 ॥ धृष्टद्युम्नादिभिः सर्वेषां पृथक्पृथक्शिबिरनिर्मापणम् ॥ 2 ॥


Mahabharata - Udyoga Parva - Chapter Text

5-152-0(37020)
वैशम्पायन उवाच। 5-152-0x(3835)
ततो देशे समे स्निग्धे प्रभूतयवसेन्धने।
निवेशयामास तदा सेनां राजा युधिष्ठिरः ॥ 5-152-1(37021)
परिहृत्य श्मशानानि देवतायतनानि च।
आश्रमांश्च महर्षीणां तीर्थान्यायतनानि च ॥ 5-152-2(37022)
मधुरानूषरे देशे शुचौ पुण्ये महामतिः ।
निवेशं कारयामास कुन्तीपुत्रो युधिष्ठिरः ॥ 5-152-3(37023)
ततश्च पुनरुत्थाय सुखी विश्रान्तवाहनः ।
प्रययौ पृथिवीपालैर्वृतः शतसहस्रशः ॥ 5-152-4(37024)
विद्राव्य शतशो गुल्मान्धार्तराष्ट्रस्य सैनिकान् ।
पर्यक्रामत्समन्ताच्च पार्थेन सह केशवः ॥ 5-152-5(37025)
शिबिरं मापयामास धृष्टद्युम्नश्च पार्षतः।
सात्यकिश्च रथोदारो युयुधानश्च वीर्यवान् ॥ 5-152-6(37026)
आसाद्य सरितं पुण्यां कुरुक्षेत्रे हिरण्वतीम् ।
सूपतीर्थां शुचिजलां शर्करापङ्कवर्जिताम् ॥ 5-152-7(37027)
खानयामास परिखां केशवस्त्रत्र भारत ।
गुप्त्यर्थमपि चादिश्य बलं तत्र न्यवेशयत् ॥ 5-152-8(37028)
विधिर्यः शिबिरस्यासीत्पाण्डवानां महात्मनाम् ।
तद्विधानि नरेन्द्राणां कारयामास केशवः ॥ 5-152-9(37029)
प्रभूततरकाष्ठानि दुराधर्षतराणि च।
भक्ष्यभोज्यान्नपानानि शतशोऽथ सहस्रशः ॥ 5-152-10(37030)
शिबिराणि महार्हाणि राज्ञां तत्र पृथक्पृथक् ।
विमानानीव राजेन्द्र निविष्टानि महीतले ॥ 5-152-11(37031)
तत्रासञ्शिल्पिनः प्राज्ञाः शतशो दत्तवेतनाः।
सर्वापकरणैर्युक्ता वैद्याः शास्त्रविशारदाः ॥ 5-152-12(37032)
ज्याधनुर्वर्मशस्त्राणां तथैव मधुसर्पिषोः ।
ससर्जरकसपांसूनां राशयः पर्वतोपमाः ॥ 5-152-13(37033)
बहूदकं सुयवसं तुषाङ्गारसमन्वितम् ।
शिबिरे शिबिरे राजा सञ्चकार युधिष्ठिरः ॥ 5-152-14(37034)
महायन्त्राणि नाराचास्तोमराणि परश्वधाः।
धनूंषि कवचादीनि ऋष्टयस्तूणसंयुताः ॥ 5-152-15(37035)
गजाः कण्टकसन्नाहा लोहवर्मोत्तरच्छदाः।
दृश्यन्ते तत्र गिर्याभाः सहस्रशतयोधिनः ॥ 5-152-16(37036)
निविष्टान्पाण्डवांस्तत्र ज्ञात्वा मित्राणि भारत ।
अभिसस्रुर्यथादेशं सबलाः सहवाहनाः ॥ 5-152-17(37037)
चरितब्रह्मचर्यास्ते सोमपा भूरिदक्षिणाः।
जयाय पाण्डुपुत्राणां समाजग्मुर्महीक्षितः ॥ ॥ 5-152-18(37038)

इति श्रीमन्महाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि द्विपञ्चशदधिकशततमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-152-5 गुल्मान् सैनिकसङ्घान् ॥ 5-152-7 सूपतीर्थां शोभनोपकण्ठाम् ॥ 5-152-9 तद्विधानि शिबिराणि ॥ 5-152-16 कण्टकसन्नाहाः येषां स्पर्शमात्रादपि गजान्तराणां कण्टकवेधो भवति तादृशाः सन्नाहाः कवचानि। कण्टकैः कवचैः सन्नहनं येषामिति प्राञ्चः ॥ 5-152-19 अभिसस्रुरभ्याजग्मुः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.